________________
१०८]
[ २७० - २७४
वृत्तमौक्तिक - द्वितीयखण्ड
सत्यं सद्वसु वसुदेवदेवकीभ्यां,
रोहिण्यामुडुनि नभस्य कृष्णपक्षे । पर्जन्ये कटति निशीथनीरवाया
मष्टम्यां निगमरहस्यमाविरासीत् ॥ २७० ।।
इति प्रहर्षिणी १२६.
१२७. अथ रुचिरा पयोधरे कुसुमितहारभूषिता,
__ सुपुष्पिणी सरसविराविनूपुरा । रसान्विता सकनकरावकङ्कणा,
चतुर्यतिः सखि ! रुचिरा विराजते ॥ २७१ ॥
यथा
कलापिनं निजदयिताविहारिणं
पयोधरं सखि ! कलये विराविणम् । हरिं विना मम सकलं विषायितं,
हरेः पुनः सकलमिदं सुखायितम् ।। २७२ ।।
इति रुचिरा १२७.
१२८. अथ चण्डी
कलय नयुगमिह धारय हस्तं,
तदनु च विरचय सं किल शस्तम् । चरणविरतियुतभासुरहारा,
त्रिजगति वरसखि राजति चण्डी ॥ २७३॥
यथा
सरुतचरणयुतनूपुरशोभा,
बहुविधविरचितमानसलोभा । हरिगतवनमनुगच्छति राधा
सखि मनसिजकृतमानसबाधा ।। २७४ ।।
इति चण्डी १२८.