________________
प० २६५ - २६९]
१. वृत्तनिरूपण - प्रकरण
[ १०७
यथा
यथा
विलोलद्विरेफावलीनां विरावण,
हिमांशोः कराणां च सङ्घन दावेण । वपुर्मे सदा दाहितं शीतयस्वालि,
पुरो दर्शयित्वा वपुर्मालतीमालि ॥ २६५ ।।
इति कन्दम् १२४.
१२५. अथ पङ्कावलिः भं कुरु तदनु नकारमिहानय,
धेहि जमथ जगणं परिभावय । शंखमिह तदनु भामिनि मानय,
पङ्कसुपरिकलितावलिमानय ॥ २६६ ॥ कोमलसुललितमालति'मालिनि,
__ पङ्कजपरिमलसंलुलितालिनि । कोकिलकलकल कूजितशालिनि,
राजति हरिरिह वज़ुलजालिनि ॥ २६७ ।। इति पङ्कावलिः १२५.
१२६. अथ प्रहर्षिणी कर्णाभ्यां सुललितकुण्डलं दधाना,
शंखाभ्यामतिसुरसा कुचाढ्यहारा । विश्रामं ननु रवनूपुरस्य युग्मे,
बिभ्राणा सखि ! जयति प्रहर्षिणीयम् ॥ २६८ ॥ यद्दन्ते विलसति भूमिमण्डलं त
न्मालिन्यश्रियमुपयातमुज्ज्वलाभे । देवेन्द्ररभिकलितः स्तवप्रयोगै
रस्माकं वितरतु शं स कोलदेहः ।। २६६ ।। यथावा,
अस्मवृद्धप्रपितामह-महाकविपण्डितश्रीरामचन्द्रभट्टविरचिते कृष्णकुतूहले महाकाव्ये श्रीभगवदाविर्भाववर्णनप्रस्तावे--
यथा
१. ख. कुन्दयुमालिनि । २. ख. कोकिलनवकल ।