________________
वृत्तमौक्तिक - द्वितीयखण्ड
[१० २६१ - २६४
इति च श्रीशङ्कराचार्यविरचिते गौरोदशके हरिस्तोत्रे च । 'हा तातेतिऋन्दितमाकर्ण्यविषण्ण' ' इत्यादि रघुवंशे च सहस्रशो निदर्शनानि ।
इति मत्तमयूरम् १२२.
१२३. अथ तारकम् जलराशिविराजितहस्तसयुक्तं,
__ चरणस्य तथा विरतौ गुरुवृत्तम्' । हृदये कुरुताखिलमोहितचित्तं,
फणिनायकभाषित-तारकवृत्तम् ।। २६१ ॥
यथा
विमलं कमलं गरलं मनुते सा,
सरसेन विसेन सुसेवितवेषा । अवनं गमनं तदनन्दितचित्तं,
हृदये सदये तदये कुरु वित्तम् ॥ २६२ ।। प्रथा वा, भूषणे'२अतिभारतरं हृदि चन्दनपत,
__ मनुते सरसीपवनं विषशङ्कम् । तव दुस्तरतारवियोगपयोधि
न हि पारमसौ भविता परमाधेः ॥ २६३ ॥
इति तारकम् १२३.
१२४. प्रथ कन्दम् शरं हारयुग्मं क्रमादत्र संधेहि,
त्रयः पंक्तिसंख्याकवर्ण तथा धेहि । इदं कन्दसंज्ञं समुक्तं फणीन्द्रेण,
कवीनां यथा मोदकन्दं कवीन्द्रेण ।। २६४ ॥
१. ख. वित्तम् । *टिप्पणी-१ हा तातेति क्रन्दितमाकर्ण्य विषण्ण
स्तस्यान्विष्यन् वेतसगूढं प्रभवं सः । शल्यप्रोतं वीक्ष्य सकुम्भं मुनिपुत्र, तापादन्तः शल्य इवासीत् क्षितिपोपि ॥
[रघुवंश स० ६, प० ७५] *टिप्पणी-२. वाणीभूषणम् द्वि० अ० पद्य २४८