________________
२५८ - २६० ]
१. वृत्तनिरूपण-प्रकरण
[ १०५
एतस्या एवान्यत्र श्रुतिः नवयतिसहितं मगण - तगण - यगण-सगणगुरुयुतं मत्तमयूरमिति गणान्तरेण नामान्तरमुक्तम् । तथा च छन्दोमञ्जर्याम् [द्वितीयस्तबके का. ६७] 'वेदै रन्ध्रम्तौं यसगा मत्तमयूरम् ।' इति लक्षणात् ।
यथा
वन्दे गोपं गोपवधूभिः कृतरासं,
हस्ते वंशं रावि दधानं वरहासम् । नव्ये कुञ्ज संविदधानं नवकेलिं, __ लोलाक्षं राधामुखपद्माकरहेलिम् ।।
॥ २५८ ।।
इति माया १२२. यथा वा,
अस्मद्वृद्धप्रपितामहश्रीरामचन्द्र भट्टविरचित कृष्णकुतूहले महाकाव्ये रासवर्णनप्रस्तावेरासक्रीडासक्तवचस्कायमनस्काः,
संस्कारातिप्रापितनाट्यादिविशेषाः । वृन्दारण्यं तालतलोद्घट्ट नवाचा
मत्यासंगाच्चक्रुरिमा मत्तमयूरम् ।। २५६ ।। यथा वा, छन्दोमञ्जर्याम् [द्वितीयस्तबके का० ९७] लीलानृत्यन्मत्तमयूरध्वनिकान्तं,
__ चञ्चन्नीपामोदिपयोदानिलरम्यम् । कामक्रीडाहृष्टमना गोपवधूभिः,
कंसध्वंसी निर्जनवृन्दावनमाप ।। २६० ॥ 'गौरीमम्बामम्बुरुहाक्षीमहमीडे,*' तं संसारध्वान्तविनाशं हरिमीडे २
*टिप्पणी-१
'लीलारब्धस्थापितलुप्ताखिललोकां लोकातीतैर्योगिभिरन्तश्चिरमृग्याम् । बालादित्यश्रेणिसमानद्युतिपुजा गौरीमम्बामम्बुरुहाक्षीमहमोडे ।। १ ।
[शङ्कराचार्यकृतगौरीदशकस्तोत्र प० १] स्तोष्ये भक्त्या विष्णुमनादि जगदादि यस्मिन्न तत् संसृतिचक्रं भ्रमतीत्थम् । यस्मिन् दृष्टे नश्यति तत्संसृतिचक्रं, तं संसारध्वान्तविनाशं हरिमीडे॥१॥
[शङ्कराचार्यकृतहरिमीडे स्तोत्र प०.१.]
*टिप्पणी-२