SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ १०४ ] यथा तत्र वृत्तमौक्तिक - द्वितीयखण्ड यथा तव कुसुमनिभहसितमयि, इति हि सखि ! हरिरनुवदति, गततनुमनुकलयति मयि । 'अत्र प्रस्तारगत्या द्वादशाक्षरस्य षण्णवत्यधिकं सहस्रचतुष्टयं ४०६६ भेदा भवन्ति तेषु कियन्तः प्रदर्शिताः शेषभेदाः, सुधीभिः प्रस्तार्य सूचनीया इति । * " इति द्वादशाक्षरम् । अथ त्रयोदशाक्षरम् परिकलय दृशमयि सुदति ! ।। २५४ ।। इति तरलनयनम् १२०. १२१. वाराहः यस्मिन् पादे दृश्यन्ते संयुक्ताः षट्कर्णाः, सूर्याणामेकेनाग्राणां संख्याका वर्णाः । कर्णस्यान्ते यस्मिन् संप्रोक्तश्चैको हारः, [ १०२५४ - २५७ सोऽयं नागोको वाराहो वृत्तानां सारः ।। २५५ ।। कल्पान्तप्रोद्यद्वारां राशौ दृब्धा मग्नं, यः क्षोणीपृष्ठं दंष्टाग्रे कृत्वा संलग्नम् । हत्वा दैत्यं दृप्यन्तं सिन्धोर्मध्यादागात्, कुर्यात् कालः सोऽयं सर्वेषां रक्षां वेगात् ।। २५६ ।। ૨ इति वाराहः १२१. १२२. अथ माया हारौ कृत्वा स्वर्णसुमेरुद्वययुक्तौ, प्रत्येकं हस्तौ वलयाभ्यामपि सक्तौ । मिथ्या चित्तस्थस्य दधाना वरवर्णे, माया सर्वेषां हृदये राजति तूर्णे ४ ।। २५७ ।। १. क. प्रतौ ' पंक्तिद्वयं नास्ति । २. ख. कोलः । ३. ख. वधान वरवर्णम् । ४. ख. तूर्णम् । * टिप्पणी - १. अन्यग्रन्थेषु प्राप्तशेषभेदाः पञ्चमपरिशिष्टेऽवलोकनीयाः ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy