________________
१० २४६ - २५३ ]
यथा
यथा
१. वृत्तनिरूपण - प्रकरण
सरसक विजनाहिता भाविता,
१२८. अथ प्रमुदितवदना
भवति सुकविपिङ्गलेनोदिता ।
सकल रसिकचित्तहृद्या तदा,
प्रमुदितवदना तु नौ रौ यदा ॥ २४६ ॥
कलय सखि ! विराजि वृन्दावनं,
सहचरि ! कुरु मे शरीरावनम् ।
यदि कथमपि मानसे भावयेः,
*9
इयमेव अन्यत्र प्रभा'
यदुकुलतिलकं तदैवानयेः ।। २५० ।। इति प्रमुदितवदना ११८.
1
११६. प्रथ नवमालिनी
सखि ! नवमालिनीं रसविरामां,
ननु कलयालि पूर्वयतियुक्ताम् ।
नजभयकारभावितपदाढ्यां,
फणिपतिनागपिङ्गल विभक्ताम् ।। २५१ ।।
इह कलयालि ! नन्दसुतबालं,
सरसविलासरासकृतमालं,
नवघनकान्तिनिर्जिततमालम् ।
मुनिवरयोगिमानसमरालम् ।। २५२ ।।
इति नवमालिनी ११६. १२० अथ तरलनयनम्
जलधि-नगणमिह रचयत,
रविमित लघुमिह कलयत । सुकविफणिपतिरिति वदति,
तरलनयनमिति हि भवति ।। २५३ ।।
* टिप्पणी-१ वृत्तरत्नाकरः श्र० ३, का० ६५
[ १०३