________________
१०२ ]
वृत्तमौक्तिक - द्वितीयखण्ड
[५० २४४ - २४८
यथा
यथा
चेतसि कृष्णं कलयति' ललितं,
___गोकुलगोपीजनहृदि वलितम् । वादितवंशं तरलितमुकुट,
कारितरासं विनिहतशकटम् ।। २४४ ।।
इति ललितम् ११५. इदमेव अन्यत्र ललना' इत्युक्तम् ।
११६. अथ कामवत्ता द्विजवर-सगणौ विधेहि तूर्ण,
जगणमथ ततोऽपि देहि कर्णम् । सरससुकविपिङ्गलेन वित्ता,
लसति कविमुखेषु कामदत्ता ।। २४५ ॥ कलपरिमलचञ्चलालिमालं,
सुललितदलमालतीविशालम् । वनमिदमलिसंलुलद्रसालं,
हरिमिह हि विना सुखाय नालम् ।। २४६ ।। ___ इति कामदत्ता ११६.
११७. अथ वसन्तचत्वरम् यदा लघुर्गुरुः क्रमेण भासते,
खरांशुवर्णकेन चेद् विकासते । फणीन्द्रनागभाषितं सुसत्वरं,
विधेहि मानसे वसन्तचत्वरम् ॥ २४७ ॥ मुदा विलोलमौलिगोपनायकं,
हृदा सदैव चित्तमोददायकम् । यदा विभावयिष्यसि त्वमाशु रे,
तदा सुखे निमज्जितासि भासुरे ॥ २४८ ।। इति वसन्तचत्वरम् ११७.
यथा
१. स. ख. कलयत। २ ख. निमङ क्ष्यसि प्रभासुरे । *टिप्पणी-१ छन्दःसूत्र टि०प० १३७