________________
प० २३६ - २४३ ]
यथा
यथा
१. वृत्तनिरूपण - प्रकरण
११३. अथ प्रियंवदा
कुसुमसङ्गतकरा रसाहिता,
विमलगन्धकुचहारभूषिता ।
सरुतनूपुर सुशोभिता सदा,
जयति चेतसि सखे ! प्रियंवदा ।। २३६ ॥
व्रजवधूजनमनोविमोहनं,
सरसचन्दनविलेपचचितं,
सरसकेलिषु कलानिकेतनम् ।
कलय चेतसि हरि सदार्चितम् ।। २४० ।।
इति प्रियंवदा ११३.
११४. प्रथ ललिता
हारद्वयाचितकुचेन भूषिता,
हस्तस्थितोज्ज्वल सुपुष्पकङ्कणा
पादे विरावयुतनूपुराञ्चिता,
चित्ते चकास्ति ललिता विलासिनी ॥ २४१ ।।
गोपीषु केलिरससक्तचेतसं,
सूर्यात्मजाविलुलिता तिवेतसम् ।
चित्तावमोहकर वेणुधारकं,
वन्दे सदा ललितनन्ददारकम् ।। २४२ ।।
इति ललिता ११४.
इयमेव अन्यत्र सुललिता इति गणभेदेन उक्तम् । श्रतएव 'तो भो जरौ सुललिता श्रुतौ यतिः ।' इति वृत्तसारे सयति लक्षणं लक्षितमिति ।
११५. अथ ललितम्
धेहि भकारं तदनु च तगणं,
धारय नं वा तदनु च सगणम् । बाणविरामं फणिपतिकलितं,
[ १०१
चेतसि वृत्तं कलयत ललितम् ॥ २४३ ॥