________________
५० २३० - २३४]
१. वृत्तनिरूपण - प्रकरण
यथा
भययुतचित्तो विगतविलम्बं,
कथमपि यातो हरितकदम्बम् । तरणिसुतायास्तटभुवि कृष्णः,
स जयति गोपीवसनसतृष्णः ॥ २३० ॥ इति कुसुमविचित्रा १०८.
१०६. अथ तामरसम् सरससुरूपसुगन्धसशोभं,
___ कुचयुगसङ्गमसंवृत'लोभम् । रसयुतहारयुगाहितमुक्त,
कलयत तामरसं वरवृत्तम् ॥ २३१ ।।
यथा
विलसति मालतिपुष्पविकासः,
न हि हरिदर्शनतो वनवासः । सखि ! नवकेतकिकण्टककर्षः,
वनकलितोनुतनूरुहहर्षः ॥ २३२ ॥
इति तामरसम् १०६.
११०. अथ मालती कलय नकारमतोपि नायको,
तदनु विधारय पक्षिणां पतिम् । फणिपतिपिङ्गलनागभाषिता,
__कविहृदि राजति मालती मता ॥ २३३ ॥
यथा
कलयति चेतसि नन्ददारकं,
सकलवधूजनचित्त हारकम् । निखिलविमोहकवेणुधारकं,
दितिसुतसङ्घविनाशकारकम् ॥ २३४ ।।
इति मालती ११०
१. ख. संभृतम् । २ ख. कलयत । ३. ख. चीरहारकम् ।