SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ ९८ वृत्तमौक्तिक - द्वितीयखण्ड [प० २२७-२२६ १०७. अथ मन्दाकिनी इह यदि नगणद्वयं जायते, तदनु च रगणद्वयं दीयते । फणिपमुखसुमेरुमन्दाकिनी, प्रभवति हि तदैव मन्दाकिनी ॥ २२७ ।। यथा सखि ! मम पुरतो मुरारेः कथां, कुरु न कुरु तथा वृथाऽन्यां कथाम् । दि मधुरिपुरेति वृन्दावनं, कलय मम तदा शरीरावनम् ॥ २२८ ॥ इति मन्दाकिनी १०७. __ क्वचिदियमेव प्रभेति* ' नामान्तरं लभते । 'सह शरधि निजं तथा कार्मुकम्' इत्यादि किराते*२ । यथा वा-'अतिसुरभिरभाजि पुष्पश्रिया' इति माघेऽपि । *3 १०८. अथ कुसुमविचित्रा विरचय विप्रं तदनु च कणं, पुनरपि तद्वत् कुरु रविवर्णम् । श्रुतिमितपादे विमलचरित्रा, परमपवित्रा कुसुमविचित्रा ॥ २२६ ॥ *टिप्पणी-१ वृत्तरत्नाकरः अ०३, का०६५. "टिप्पणी-२ सह शरधि निजस्तथा कार्मुकं वपुरतनु तथैव संवर्मितम् । निहितमपि तथैव पश्यन्नसिं, वृषभगतिरुपाययो विस्मयम् ।। [किरातार्जुनीयम् स० १८, ५० १६] *टिप्पणी-३ अतिसुरभिरभाजि पुष्पश्रिया मतनुतरतयेव संतानकः । तरुणपरभत: स्वनं रागिणामतनुत रतये वसन्तानकः ।। [शिशुपालवधम् स० ६, प० ६७]
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy