________________
६४ ]
वृत्तमौक्तिक - द्वितीयखण्ड
[ ५० २२० - २२२
कद्रू'विनोदेन सुखातिसंभ्रमान्,
निद्रां जगामालसमीलितेक्षणः ।। २२० ।। यथा वाकम्पायमाना सखि ! सर्वतो दिशं,
शम्पां दधाना नवनीरदावलिः । कम्पायितं संविदधाति मानसं,
मां पाहि नन्दस्य सुतं समानय ।। २२१ ।।
इति इन्द्रवंशा १०३.
१०४. प्रथानयोरुपजातयः यदीन्द्रवंशाचरणेन सङ्गता,
पादोऽपि वंशस्थविलस्य जायते । भेदास्तदा स्युः सुरराजसंख्यकाः,
नागोदितास्तेप्युपजातिसंज्ञकाः ॥ २२२ ।।
इति वंशस्थविलेन्द्रवंशोपजाति:' । अनयोरप्येकत्र प्रथमाक्षरं लघुः, अपरत्र च प्रथमाक्षरं गुरुरिति स्वल्पभेदत्वाच्चतुर्दशोपजातिभेदाः पूर्ववदेव प्रस्ताररचनया भवन्ति । तथा चात्र सर्वत्र स्वल्पभेदाच्छन्दोभ्यामुपजातयो भवन्तीति उपदिश्यत इति दिक् ।
१. ख. कुण्डविनोदेन । २. ख. सङ्गतः । *टिप्पणी-१ क. ख. प्रतौ वंशस्थविलेन्द्रवंशोपजातेरुदाहरणं न विद्यते । *टिप्पणी-२ ग्रन्थकारेण वंशस्थविलेन्द्रवंशोपजाते तस्य चतुर्दशभेदाः स्वीकृताः, परं तत्तद्
भेदानां लक्षणोदाहरणादिभिः प्रतिपादनं नैव कृतम् । अतोऽत्रास्माभिरन्यग्रन्था
धारेण तत्तन्नामलक्षणोदाहरणानि प्रस्तूयन्ते । १. वैरासिकी [वं. इ. इ. इ ]
८. वासन्तिका [इ. इ. इ. वं.] २. रताख्यानिकी [इ. वं. इ. इ.]
६. मन्दहासा (नं. इ. इ. वं.] ३. इन्दुमा [वं. वं. इ. इ.]
१०. शिशिरा [इ. वं. इ. व.] ४. पुष्टिदा [इ. इ. वं. इ.।
११. वैधात्री वं. वं. इ. वं.] ५. उपमेया [वं. इ. व. इ.]
१२. शङ्खचूडा [इ. इ. वं. वं.] ६. सौरभेयी [इ. वं. वं. इ.]
१३. रमणा वं. इ. वं. वं.] ७. शीलातुरा [वं. वं. वं. इ.]
१४. कुमारी [इ. वं. वं. वं.]