________________
प० २१६ - २१९]
१. वृत्तनिरुपण - प्रकरण
यथा वा, छन्दोमञ्जर्याम्*तरणिजापुलिने नवपल्लवी
परिषदा सह केलिकुतूहलात् । द्रुतविलम्बितचारुविहारिणं,
हरिमहं हृदयेन सदा वहे ॥ २१६ ।। इत्यादि रघुवंशमहाकाव्यादिषु च सहस्रशो निदर्शनानि ।
___ इति व्रतविलम्बितम् १०१.
१०२. अथ वंशस्थविला पयोधरं हारयुगेन सङ्गतं,
कर तथा पुष्पसुकङ्कणान्वितम् । सुरावयुक्त दधती च नूपुरं,
विभाति वंशस्थविला सखे ! पुरः ।। २१७ ॥
यथा
विलोलमौलिं तरलावतंसकं,
व्रजाङ्गनामानसलोभकारकम् । करस्थवंशं परिवीतबालकं,
हरि भजे गोकुलगोपनायकम् ॥ २१८ ॥
इति वंशस्थविला १०२. नपुंसकमिदमन्यत्र* २ । वंशस्तनितमिति क्वचित् ।
१०३. अथ इन्द्रवंशा कर्णं सुरूपं धृतकुण्डलद्वयं,
___ पुष्पं सुगन्धं दधती च नूपुरम् । वक्षोजसंभूषितहारशोभिनी,
__ स्यादिन्द्रवंशा हृदि मोददायिनी ॥ २१६ ।।
यथा
कूर्मः श (स)मव्यान् मम यः पयोनिधौ,
पृष्ठे महापर्वतघोरघर्षणात् ।
*टिप्पणी--१ छन्दोमञ्जरी, द्वितीय स्तबक, कारिकाया ७४ उदाहरणम् ।
२ 'वदन्ति वंशस्थविलं जतो जरौ' छन्दोमंजरी द्वि० स्त० का०६६