________________
६२ ]
वृत्तमौक्तिक - द्वितीयखण्ड
[ २११.२१५
यथा
यथा वा
देवकूलिनि मिलद्वनसलिले,
दिव्यपुष्पकलिते सुरनमिते । चन्द्रशेखरजटावलिवलिते,
देहि शं मम सदा भुवि ललिते ।। २११ ।। चन्द्रवर्म पिहितं घनतिमिर
राजवर्त्म रहितं जनगमनैः । इष्टवर्त्म तदलकुरु सरसे,
कुञ्जवम॑नि हरिस्तव कुतुकी ।। २१२ ॥ इति छन्दोमर्यामपि।
इति चन्द्रवर्त्म १००. इति प्रथमं शतकम् ।
१०१. अथ व्रतविलम्बितम् कुरु नकारमथो भगणं ततः,
- सरवनूपुरपुष्पगुरुं कुरु । कलय शब्दमतो गुरुरन्ततो,
द्रुतविलम्बितवृत्तमिदं सखि ! ॥ २१३ ।। अत्रापि समपादस्थयोः पादान्तलघ्वोः वैकल्पिकं गुरुत्वम् । यथा-मत्कृत 'पाण्डवचरिते' महाकाव्ये कर्णवर्णनप्रस्तावे-- नृषु विलक्षणमस्य पुनर्वपु
स्सहजकुण्डलवर्मसुमण्डितम् । सकललक्षणलक्षितमद्भुतं,
न घटते रथकारकुलोचितम् ॥ २१४ ।। यथा वा, तत्रैव विदुरोक्तोभिदुरमानसमाशुचिचक्षुषं,
स विदुरो निनदैरतिभीषणः । सकलबालपराक्रमवर्णनैः
सदसि भूमिपति समबोधयत् ॥ २१५ ॥
टिप्पणी-१ छन्दोमञ्जरी. द्वितीयस्तबक, कारिकाया ६५ उदाहरणम ।