________________
२०५ - २१० ]
१. वृत्तनिरूपण -प्रकरण
६१
यथा
सकलदिग्रचितं विहगारवैः,
___ स रुतमातनुते विधिभिक्षुकः ॥ २०५ ।। यथा वा, 'वाणीभषणे'.१असुलभा शरदिन्दुमुखीप्रिया,
मनसि कामविचेष्टितमीदृशम् । मलयमारुतचालितमालती
परिमलप्रसरो हतवासरः ॥ २०६ ।।
इति सुन्दरी ९८.
६६. प्रथ प्रमिताक्षरा सुसुगन्धपुष्पकृतहारकुचा',
सरसेन शंखरचितेन यथा । वलयेन शोभितकरा कुरुते,
प्रमिताक्षरा रसिकचित्तमुदम् ॥ २०७ ॥ हरपर्वत इ(ए)व बभुगिरयः,
पतगास्तथा जगति हंसनिभाः । यमुनापि देवतटिनीव बभौ,
___ हिमभाससा जगति संवलिते ।। २०८ ।। यथा वा, भूषणे २अभजद् भयादिव नभो वसुधां,
दधुरेकतामिव समेत्य दिशः । अभवन् महीपदयुगप्रमिता,
तिमिरावलीकवलिते जगति ॥ २०६ ।।
इति प्रमिताक्षरा ९.
१००. प्रथ चन्द्रवर्म पक्षिराजमथनं कुरु चरणे,
सं विधेहि भगणं सुखकरणे। हस्तमत्र कुरु पिङ्गलकथितं,
चन्द्रवर्त्म कविभिह दि मथितम् ॥ २१० ।।
१ क. रुचा। *टिप्पणी-१ वाणीभूषणम्-द्वितीय अध्याय, पद्य २५२ " २
, २५४