________________
५० १६५ - १६६]
१. वृत्तनिरूपण - प्रकरण
[ ८६
यथा
वेणुनादेन संमोहयन् गोकुले,
वल्लवीमानसं रासकेली व्यधात् । यः सदा योगिभिर्वन्दितस्तं तदा',
गोपिकानायकं गोकुलेन्द्रं भजे ॥ १६५ ।।
इति लक्ष्मीधरम् ६३. इदमेवान्यत्र स्रग्विणी* इति नामान्तरं लभते ।
६४. अथ तोटकम् यदि वै लघुयुग्मगुरुक्रमतः
___ रविसम्मितवर्ण इह प्रमितः । अहिभूपतिना फणिना भणितं,
सखि तोटकवृत्तमिदं गणितम् ॥ १६६ ।। अलिमालितमालतिभिर्ललितं,
ललितादिनितम्बवतीकलितम् । कलितापहरं कलवेणुकलं,
कलये नलिनामलपादतलम् ।। १६७ ।।
इति तोटकम् ६४.
६५. अथ सारङ्गकम् जायेत हारद्वयेनाथ शवेन,
यद्वै क्रमात् सूर्यसंख्यातवर्णेन । सारङ्गक तत्तु सारङ्गनेत्रेण,
___ संभाषितं सर्वनागाधिराजेन ।। १६८ ।।
यथा
यथा
श्रीनन्दसूनो कथं धृष्ट गोपाल,
गोपीषु धाष्टयं विधत्से महामाल । आस्थाय बालैः सहायं सुखस्थस्य,
भीतिर्न ते कंसतो गोकुलस्य ॥ १६६ ।।
इति सारङ्गकम् ६५.
१. ख. हृदा। *टिप्पणी-छन्दोमञ्जरी, द्वि० स्त० का० ७१, एवं वृत्तरत्नाकर द्वि० अ० ।