________________
८८1
वृत्तमौक्तिक - द्वितीयखण्ड
[प० १९०-१९४
यथा
अथ द्वादशाक्षरम्
६१. प्रापीडः यस्मिन् वेदानां संख्याका मा दृश्यन्ते,
पादे वर्णाः सूर्यैः सम्प्रोक्ता जायन्ते । आपीडाख्यं दिव्यं वृत्तं धेहि स्वान्ते,
___ सम्प्रोक्त नागानामीशेनैतत्कान्ते ! ॥ १६० ।। कूर्मो नित्यं मामव्यादत्यन्तं पीनः,
यत्पृष्ठेऽद्रिः कस्मिश्चित्कोणे संलीनः । यः सर्वेषां देवानां कार्यार्थ जात
स्त्रलोक्ये नानारत्नादाता विख्यातः ॥ १६१ ॥
इति प्रापीड: ९१. अयमेवान्यत्र विद्याधरः'।
६२. अथ भुजङ्गप्रयातम् लघु: पूर्वमन्ते भवेद् यत्र कर्णः,
रवेः संख्यया यत्र चाऽभाति वर्णः । तकारत्रयं यत्र मध्ये सुयुक्त,
भुजङ्गप्रयातं तदा भावि वृत्तम् ॥ १६२ ।। चलत्कुन्तलं केलिलोलाकुलाक्षं,
___ सदा वल्लवीलालितं नन्दबालम् । कपोलोल्लसत्कुण्डलालङ्कृताऽऽस्यं,
विलोलामलस्रग्ललाम नमामि ॥ १६३ ॥ इति भुजङ्गप्रयातम् ६२.
६३. अथ लक्ष्मीपरम् भानुसंख्यामितैरक्षरै सितं,
वेदसंख्यस्तथा पक्षिभिः शोभितम् । सर्वनागाधिराजेन संभाषितं,
तद्धि लक्ष्मीधरं मानसे लोभितम् ॥ १६४ ॥
यथा
*टिप्पणी-१ प्राकृतपंगलम्, परि० २, पद्य ११२, एवं वाणीभूषणम् द्वि० ० २२६