________________
८०]
वृत्तमौक्तिक - द्वितीयखण्ड
[५० १६४ - १६८
wwwww
यथा
सरोजसंस्तरादि संविधेहि,
__ पिकालिवक्त्रमुद्रणं विधेहि । मुरारिवश्यजीवमालि देहि,
मृतामथान्यथा च मामवेहि ॥ १६४ ।।
इति सेनिका ७९.
८०. अथ इन्द्र वज्रा हारद्वयं मेरुयुतं दधाना,
पादे तथा नूपुरयुग्मकं च । हस्तं सुपुष्पं वलयद्वयं च,
संधारयन्ती जयतीन्द्रवज्रा ।। १६५ ।।
यथा
आलोक्य वेदस्य सुरारिभीति,
यो दैत्यदावं दय (दद)दादिदेवः' । पाठीनदेहं कठिनं बभार,
मीनः स नो मङ्गलमातनोतु ॥ १६६ ।।
इति इन्द्रवज्रा ८०.
८१. अथ उपेन्द्रवज्रा पयोधरं कुण्डलयुग्मयुक्त,
विधारयन्ती वरमेरुयुग्मम् । सहारपुष्पं दधती सुकर्ण
मुपेन्द्रवज्रा रभसेन भाति ।। १६७ ।।
यथा
पराम्बुधावामिषवत्सुधांशु,
___ विलोकितुः पूर्वदरीगतस्य । महेन्द्रसिंहस्य विभाति जिह्वा,
समं पुरः सामिखरांशुबिम्बम् ॥ १६८ ।। ___इति उपेन्द्रवज्रा ८२०
१. ख. वदादिदेवः । २. ख. पाठानदेहं । ५. ख. सामिसुधांशुबिम्बम् ।
३. ख. विष्णुः।
४. वत्सरांशः।