________________
१६० - १६३ ]
१. वृत्तनिरूपण -प्रकरण
[ ७६
यथा
यथा
हृदि कलयत मधुमथनं,
गिरिकृतजलनिधिमथनम् । रचितसलिलनिधिशयनं,
तरलकमलनिभनयनम् ॥ १६० ॥
इति दमनकम् ७७.
७८. प्रथ चण्डिका आदिशेषशोभिहारभूषितो,
बिभ्रती पयोधरावदूषितौ । स्वर्णशङ्ख कुण्डलावभासिता,
चण्डिकाऽहिभूषणस्य सम्मता ॥ १६१ ।। व्यालकालमालिकाविकाशितं,
भालभासितानलप्रकाशितम् । शैलराजकन्यकासभाजितं,
नौमि चारुचन्द्रिकाविराजितम् ॥ १६२ ।।
इति चण्डिका। सेनिका इति अन्यत्र । क्वचिच्च श्रेणीति' रगण-जगण-रगण-लघु-गुरुभिर्नामान्तरं, फलतस्तु न कश्चिद्विशेषः । किञ्च इयमेव चण्डिका यदि लघुगुरुक्रमेण क्रियते तदा सेनिका इत्यस्मन्मतम् । अतएव भूषणकारोऽपि" हारशङ्खविपरीताभ्यां रूपनूपुराभ्यां लघुगुरुभ्यां क्रमशो मण्डितां चण्डिकामेव सेनिकामुदाजहार । तन्मतमवलम्ब्य वयमपि सलक्षणमुदाहरामः ।
७६. अथ सेनिका शरेण कुण्डलेन च क्रमेण,
महेश-वर्णसंख्यया भ्रमेण । समस्तपादपूरणं विधेहि,
___फणिप्रयुक्त-सेनिकामवेहि ॥ १६३ ।।
१. ख. रेणीति । *टिप्पणी-हारशङ्खकुण्डलेन मण्डिता या पयोधरेण वीणयाङ्किता। रूपनूपुरेण चापि दुर्लभा सेनिका भुजङ्गराजवल्लभा ॥ २१२ ।।
[वाणीभूषण द्वि० प्र०]