________________
७६ ]
वृत्तमौक्तिक-द्वितीयखण्ड
[५.१४७ -१५०
अथ एकादशाक्षरम्
यथा
७१. मालती यस्याः पादे हारा रुद्र: संख्याताः,
सर्वे वर्णास्तद्वद् यस्यां विख्याताः । सर्वेषां नागानां भूपेनोक्ता सा,
मालत्युक्त यं लोकानां पूर्णाशा ।। १४७ ॥ सिन्धूनां पृष्ठा' यत्पृष्ठे लीयन्ते,
दैत्यात् सर्वे वेदा येनादीयन्ते । यत्पुच्छोच्छालैर्देवेन्द्रा घूर्णन्ते, ___ धर्म सोऽव्यान्मायामीनस्तूर्ण ते ।। १४८ ।।
इति मालती ७१.
७२. अथ बन्धुः भत्रितय-प्रविकाशितवर्णः,
शेषविभूषितभासुरकर्णः । पण्डितचेतसि राजति बन्धुः,
पिङ्गलनागकृतो गुणसिन्धुः ।। १४६ ।। श्यामललोलगजालिसदक्ष
श्चण्डसमीरणकम्पितवृक्षः । वारिधरस्तरुभजितनीड:,
भूततिवृष्टिकृतावनिपीडः ॥ १५० ।।
इति बन्धुः ७२ इदमेवान्यत्र दोधकमिति नामान्तरेणोक्त, पिङ्गले* तु उट्टवणिकान्तरकृतलक्षणान्तरमादाय रूपभेद इति न कश्चिद्विशेषः फलत इति समञ्जसम् ।
७३. अथ सुमुखी कुरु चरणे प्रथमं नगणं,
तदनु च पक्षमितं जगणम् ।
यथा
१. स. प्रेष्ठा। *टिप्पणी-१. प्राकृतपैगलम् परि० २, पद्य १००