SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ प० १४१ - १४६ ] १. वृत्तनिरूपण - प्रकरण [ ७५ यथा सरसमतिर्यदुनृपतिः परमततिस्त्वरितगतिः । क्षपितमदः कलितगदः सकलतरिर्जयति हरिः ॥ १४१ ।। यथा वा क्षितिविजिति स्थितिविहति-व्रतरतयः परगतयः ।। उरु रुरुधुर्गुरु दुधुवु-युधि कुरवः स्वमरिकुलम् ।। १४२ ।। इति दण्डिनी' इति त्वरितगतिः ६८. ६६. अथ मनोरमम् नगणपक्षिराजराजित कुरु मनोरमं सभाजितम् । जगणकुण्डलप्रकाशितं फणिप-पिङ्गलेन भाषितम् ॥ १४३ ।। यथा कलय भाव नन्दनन्दनं सकललोकचित्तचन्दनम् । दितिज-देवराजवन्दनं कठिनपूतनानिकन्दनम् ।। १४४ ॥ इति मनोरमम् ६६. स्त्रीलिङ्गमिदमन्यत्र*२ । अत्रापि न तेन काचित् क्षतिः । ७०. अथ ललितपतिः दहननमिह कलयत तदनु शरमपि कुरुत। वदति फणिनृपतिरिति पठत ललितगतिमिति ।। १४५ ।। यथा ललितललिततरगति हरिरिह समुपसरति । तव सविधमयि सुदति ! सफलय निजजनुरति ।। १४६ ।। इति ललितगतिः ७०. __ अत्र प्रस्तारगत्या दशाक्षरस्य चतुर्विंशत्यधिकं सहस्र १०२४ भेदा भवन्ति तेषु कियन्तो भेदा लक्षिताः, शेषभेदा [स्तु सुधीभिरूह्याः' 13 इति दशाक्षरं वृत्तम् । १. ख. प्रस्तार्य लक्षणीया । *टिप्पणी-१ काव्यादर्श तृतीय परिच्छेद पद्य ८५ *टिप्पणी-२ छंदोमंजरी द्वि० स्त. का० ३४ *टिप्पणी-३ ग्रन्थान्तरेषूपलब्धाः शेषभेदाः पञ्चमपरिशिष्टे द्रष्टव्याः ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy