________________
७४ ]
वृत्तमौक्तिक-द्वितीयखण्ड
[१०१३३-१४०
यथा
माधवमासि हिमांशुकरं चिन्तय चेतसि तापकरम् । माधवमानय जातरसं चित्तमिदं मम तस्य वशम् ।। १३३ ।।
इति सारवती ६४.
६५. प्रथ सुषमा आदौ ज(त)गणः पश्चाद् यगणः यस्यामनु पादं स्याद् भगणः ।
हारः कथितश्चान्ते महिता सेयं सुषमा नागप्रथिता' ॥ १३४ ।। यथा
गोपीजनचित्ते संवलितं वृन्दावनकुञ्ज संललितम् । वन्दे यमुनातीरे तरलं कंसादिकदैत्यानां गरलम् ।। १३५ ।।
इति सुषमा ६५.
६६. अथ अमृतगतिः नगण-नरेन्द्र-नविहिता तदनु च चामरमहिता। अमृतगतिः कविकथिता फणिभणितोदधिमथिता ।। १३६ ।।
यथा
सखि मनसो मम हरणं हरिमुरलीकृत करणम् । भव मम जीवितशरणं किमु कलये निजमरणम् ।। १३७ ।।
इति अमृतगति: ६६.
६७. अथ मत्ता आदी कुर्यान् मगणसुयुक्तं ज्ञेयं पश्चाद् भगणसुवित्तम् । अन्ते हस्तं कुरु युतहारं मत्तावृत्तं कविजनसारम् ॥ १३८ ।।
यथा
वृन्दारण्ये कुसुमितकुञ्ज गोपीवृन्दैः सह सुखपुजे । रासासक्त जलधरनीलं गोपं वन्दे भुवि कृतलीलम् ।। १३९ ।।
इति मत्ता ६७.
६८. अथ त्वरितगतिः नगणकृता जगणधृता नगणहिता गुरुसहिता। इति ह फणिभणति यदा त्वरितगतिर्भवति तदा ॥ १४० ।।
१. ख. प्रहिता ।
२. ख. क्त ।