________________
प० १२५ - १३२ ]
१. वृत्तनिरूपण-प्रकरण
यथा
यथा वा
अथ दशाक्षरम् तत्र प्रथमम् -
६१. गोपाल: वह्नस्संख्याका माः पादे यस्मि-नन्ते हारश्चैको युक्तो यस्मिन् ।
नागाधीशप्रोक्त तद् गोपालं पंक्त्यर्थैर्युक्त मुह्यद्भूपालम् ।। १२५ ।। यथा__ गो-गोपालानां वन्दे सञ्चारी भूमौ दृप्यदैत्यानां संहारी। यद्वेणुक्वाणैर्मोहं संप्रापुः गोप्यः सोऽव्यान् मां यं देवा नापुः ॥ १२६ ।।
__ इति गोपालः ६१.
६२. अथ संयुतम् सगणं विधाय मनोहरं जगणद्वयं च ततोऽपरम् । गुरुसङ्गतं फणिजल्पितं सखि ! संयुतं परिकल्पितम् ॥ १२७ ॥ सखि गोपवेशविहारिणं शिखिपिच्छचूडविधारिणम् । मधुसुन्दराधरशालिनं ननु कामये वनमालिनम् ।। १२८ ।। वजनायिका हतकालियं कलयन्ति या मनसालि यम् । सदयं मया सह शालिनं कुरु तासु तं वनमालिनम् ।। १२६ ।।
इति संयुतम् ६२. संयुता इति स्त्रीलिङ्ग पिङ्गले ।*
६३. प्रथ चम्पकमाला आदिभकारो यत्र कृतः स्यात् प्रेयसि पश्चान् मोपि मतः स्यात् । अन्तसकारो गेन युतः स्यात् चम्पकमालावृत्तमिदं स्यात् ॥ १३० ।। सर्वमहं जाने हृदयं ते कामिनि ! कि कोपेन कृतं ते । पङ्कजघातैलॊचनपातैः कामितमाप्तं चेतसि तां तैः ।। १३१ ॥
इति चम्पकमाला ६३. रुक्मवतीति अन्यत्र । रूपवतीति च क्वचित् नामान्तरेण इयमेव ज्ञेया ।
६४. अथ सारवती भत्रितयाचित सर्वपदा पण्डितमण्डलिजातमदा। गेन युता किल सारवती नागमता गुणभारवती ।। १३२॥
यथा
१. ख. पदैवानापुः। *टिन्पणी-प्राकृतपैङ्गलम्, परि० २, पद्य ६० ।