________________
७२ ]
वृत्तमौक्तिक - द्वितीयखण्ड
[ ५० ११७ - १२४
यथा
यथा
५७. अथ भुजगशिशुसृता नगणयुगलसंदिष्टं तदनु मगणनिर्दिष्टम् । भुजगशिशुसृतावृत्तं कलयत फणिना वित्तम् ।। ११७ ।। अनुपमयमुनातीरे नवपवस (कमल)लसन्नीरे। प्रणमत कदलीकुञ्ज हरिमिह सुदृशां पुजे ॥ ११८ ॥
इति भुजगशिशुसृता ५७. सृता इत्येव शम्भुप्रभृतिषु पाठः । भृता इति आधुनिकाः पठन्ति*
५८. प्रथ मणिमध्यम् आदिभकारं देहि ततः सोऽपि गणान्ते' नागमतः । मध्यमकारो भाति यदा स्यान्मणिमध्यं नाम तदा ।। ११६ ।। वल्लवनारीमानहरः पूरितवंशीरावपरः। गोकुलनेता गोषुचरः पातु हरिस्त्वां गोपवरः ।। १२० ।।
इति मणिमध्यम् ५८.
५६. प्रथ भुजङ्गसङ्गता सगणं विधेहि सङ्गतं जगणं ततोऽपि संयुतम् । रगणं च नागसम्मता कथिता भुजङ्गसङ्गता ॥ १२१ ।। मम दह्यते मनो भृशं परिभावयाङ्गकं कृशम् । कथयामि यं तमानये धृतिमालि येन धारये ।। १२२ ।।
इति भुजङ्गसङ्गता ५६.
६०. अथ सुललितम् दहन-नमिह वितनु चरणमनु च सुतनु । फणिपतिनृपतिकृति कलय सुललितमिति ।। १२३ ।। कलितललितमुकुट निहतदित्तिजशकट । मम सुखमनुकलय करयुगधृतवलय ।। १२४ ।।
___ इति सुललितम् ६०. अत्र प्रस्तारगत्या नवाक्षरस्य द्वादशाधिकपञ्चशत भेदेषु ५१२ अाद्यन्तसहिता एकादशभेदाः प्रदर्शिताः, शेषभेदा ऊहनीयाः ॥ ६ ॥
. इति नवाक्षरं वृत्तम्।
यथा
यथा
१. ख. गणोन्ते ।। * टिप्पणी-१ छन्दोमञ्जरी द्वि० स्त० कारिका २४. •टप्पणी-२ अवशिष्टाः प्राप्तभेदाः पञ्चमपरिशिष्टे पर्यालोच्याः ।