SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १० १०६ - ११६ ] १. वृत्तनिरूपण -प्रकरण ५३. अथ पाइन्तम यस्यादि मगणकृतश्चान्तो हस्तेन विरचितः । मध्ये भो यस्य विलसितः तत् पाइन्तं फणिभणितम् ॥ १०६ ।। यथा गोपालानां रचितसुखं सम्पूर्णेन्दुप्रतिममुखम् । कालिन्दीकेलिषु ललितं वन्दे गोपीजनवलितम् ॥ ११० ॥ इति पाइन्तम् ५३ पाइन्ता इति पिङ्गले । ५४. अथ कमलम् नगणयुगलमहितं तदनु करविरचितम् । फणिकृतमतिविमलं प्रभवति किल कमलम् ।। १११ ॥ यथा यथा तरलनयनकमलं रुचिरजलदविमलम् । शुभदचरणकमलं कलय हरिमपमलम् ॥ ११२ ॥ इति कमलम् ५४. ५५. अथ बिम्बम् द्विजवरनरेन्द्र कर्णैः प्रविरचितनन्दस्वर्णैः । फणिनृपतिनागवित्तं कविसुखदबिम्बवृत्तम् ।। ११३ ।। लुलितनलिनालसाक्षः शठललितवाचिदक्षः । कलयसि सुरागिवक्षः त्वमपि मयि जातभिक्षः ।। ११४ ।। इति बिम्बम् ५५. ५६. मथ तोमरम् सगणं मुदा त्वमवेहि जगणद्वयं च विधेहि । नवसङ्ख्या वर्णविधारि कुरु तोमरं सुखकारि ॥ ११५ ।। कमलेषु 'संलुलितालि बकुली कृतं] वरमालि। अवलोकये वनमालि वपुरेति'' किं वनमालि ॥११६ ।। इति तोमरम् ५६. यथा १. ' ' चिह्नमध्यगः पाठो नास्ति ख. प्रतो । टिप्पणी-प्राकृतपैङ्गलम्-परि. २ पद्य ८० ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy