________________
७०
तत्र
]
-
५०. रूपामाला
नेत्रोक्ता माः पादे दृश्यन्ते यस्मिन्नङ्का वर्णा भासन्ते ।
यच्छ्र ुत्वा भूपाला मोदन्ते तद् रूपामालाख्यं प्रोक्तं ते ।। १०२ ॥
यथा
वृत्तमौक्तिक - - द्वितीयखण्ड
अथ नवाक्षरम्
भव्याभिः केकाभिः सम्मिश्राः कुर्वन्तः सम्पूर्णाः सर्वाशाः ।
एते दन्तीन्द्राणां संकाशा मेघाः पूर्णास्तस्मात् सन्त्वाशाः ।। १०३ ।।
इति रूपामाला ५०.
यथा
५१. महालक्ष्मिका
वैनतेयो यदा भासते साऽपि चेद् वह्निना भूष्यते ।
रन्ध्रवर्णा यदा सङ्गताः सा महालक्ष्मिका सम्मता ।। १०४ ।।
कानने भाति वंशीरुतं कामबाणावलीसंयुतम् ।
मानसं भावनादाहितं शीतय स्वं मनो याहि तम् ।। १०५ ।। इति महालक्ष्मिका ५१.
५२. अथ सारङ्गम्
गणयकारप्रथितं लघुयुगगैः ' संकथितम् ।
कविजनसञ्जातमदं कलयत सारङ्गमिदम् ॥ १०६ ॥
यथा वा
[ प० १०२-१०८
सखि हरिरायाति यदा विरचितकम्पेन हृदा ।
न किमपि वक्त कलये कथमपि दृष्टे वलये ॥ १०७ ॥
प्रणमत सर्वाघहरं दितिसुतगर्वापहरम् । सुरपतितर्वाहरणं विलसदखर्वाचरणम् ।। १०८ ।
इति सारङ्गम् ५२.
इदमेव सारङ्गिकेति पिङ्गले* नामान्तरेणोक्तम् ।
१. क. युगकैः ।
* टिप्पणी - १ प्राकृतपैंगलम् - परि० २, पद्य