________________
०६४ - १०१]
यथा
यथा
यथा
यथा
१. वृत्तनिरूपण - प्रकरण
४६. प्रथ माणवकक्रीडितकम् भेन युतं तेन चितं दण्डकृतं हारवृतम् । वेदयति नागमतं माणवकक्रीडितकम् ॥ ६४॥
वेणुधरं तापहरं' नन्दसुतं बालयुतम् । चन्द्रमुखं भक्तसुखं नौमि सदा शुद्धहृदा ॥ ६५ ॥ इति माणवकक्रीडितकम् ४६.
४७. प्रथ चित्रपदा
भद्वितयाचितकर्णा शैलविकासितवर्णा ।
वारिनिधो यतियुक्ता चित्रपदा फणिनोक्ता ।। ६६ ॥
वेणुविराजित हस्तं गोपकुमारकशस्तम् । वारिदसुन्दरदेहं नौमि कलाकुलगेहम् ॥ ६७ ॥ इति चित्रपदा ४७.
४८. प्रथ अनुष्टुप
सर्वत्र पञ्चमं यस्य लघु षष्ठं गुरु स्मृतम् । सप्तमं समपादे तु ह्रस्वं तत्स्यादनुष्टुभम् ॥ ६८ ॥
कमलं ललितापाङ्गि - कालालिकुलसङ्कुलम् । विलुलत् कुन्तलं सुभ्रु ! कलयत्यतुलं सुखम् ॥ ६६ ॥ इति अनुष्टुप् ४८.
४९. अथ जलदम्
कुरु नगणयुगल मनु च लयुगमिह । वरफणिपतिकृति कलय जलदमिति ॥ १०० ॥
नवजलदविमल शुभनयनकमल ।
कलय मम हृदय-मखिलजनसदय ।। १०१ । इति जलवम् ४९.
[ ६
अत्र च प्रस्तारगत्या अष्टाक्षरस्य षट्पञ्चाशदधिकं द्विशतं २५६ भेदास्तेषु प्राद्यन्तसहितं कियन्तस्समुदाहृताः, शेषभेदाः प्रस्तार्य समुदाहर्त्तव्या इति । *
इत्यष्टाक्षरम् ।
१. 'तापहरं' क प्रतो नास्ति ।
२. ख. फणिपतिकृतमथ ।
* टिप्पणी - ग्रन्थान्तरेषु संप्राप्त ये शेषभेदास्ते पञ्चमपरिशिष्टे द्रष्टव्याः ।