________________
वृत्तमौक्तिक -द्वितीयखण्ड
[१०७०-७८
३४. अथ समानिका पक्षिराजभासिता जेन संविभूषिता । अन्तगेन शोभिता सा समानिका मता ॥ ७० ॥
यथा
यथा
फुल्लपङ्कजाननं केलिशोभिकाननम् । वल्लवीमनोहरं नौमि राधिकावरम् ।। ७१ ॥
इति समानिका ३४.
३५. अथ सुवासकम् द्विजमिह धारय भमनु च कारय । भवति सुवासक-मिति गुणलासक ।। ७२ ।। विबुधतरङ्गिणि भुवि कृत'रिङ्गिणि। तरलतरङ्गिणि जय हरसङ्गिनि ।। ७३ ॥
इति सुवासकम् ३५.
___३६. अथ करहञ्चि नगणमिह धेहि तदनु समवेहि । इति किल[श]रांचि भवति करहञ्चि ।। ७४ ।। व्रजभुवि विलास युवतिकृत[रा]स । जय निहतदैत्य जघन कृतरीत्य ॥ ७५ ॥
इति करहञ्चि ३६.
३७. प्रथ कुमारललिता जकारयुतकर्णा मुनीन्द्रमितवर्णा । लघुद्वितयमध्या कुमारललिता स्यात् ॥ ७६ ॥ वजाधिपकिशोरं नवीनदधिचोरम् । कुमारललितं [तं] नमामि हृदि सत्तम् ॥ ७७ ॥
इति कुमारललिता ३७.
३८. अथ मधुमती नगणयुगयुता तदनु ग-महिता । वदति मधुमती-महिरतिसुमतिः ॥ ७८ ॥
यथा
यथा
१. ख 'शुभ'।
२. ख. नयन ।