________________
वृत्तमौक्तिक - द्वितीयखण्ड
[५० ५४.६१
यथा
यथा
२६. अथ विमोहम् पक्षिराजद्वयं यत्र पादस्थितम् । पिङ्गलेनोदितं तद् विमोहं मतम् ।। ५४ ॥ गोपिकामानसे यः सदा व्यानशे । पातु मां सेवकं सोऽहनद्यो बकम्' ॥ ५५ ।।
___ इति विमोहम् २६. 'विज्जोहा' इति स्त्रीलिङ्ग पिङ्गले ।
२७. अथ चतुरंसम् प्रथमनकार तदनु यकारम् । कुरु चतुरंसे फणिकृतशंसे ॥ ५६ ।। विनिहतकंसं तरलवतंसम् । नम धृतवंशं सुरकृतशंसम् ॥ ५७ ॥
इति चतुरंसम् २७. 'चउरंसा' इति स्त्रीलिङ्ग पिङ्गले ।
२८. अथ मन्यानम् पादे द्वितं देहि षड्वर्णमाधेहि । जानीहि नागोक्तमन्थानमेतद्धि ।। ५८ ।। धूतासुराधीश गोगोपकाधीश । मां पाहि गोविन्द गोपीजनानन्दः ॥ ५६ ।। इति मन्यानम् २८. स्त्रीलिङ्गमन्यत्र ।
२६. अथ शङ्खनारी यदा स्तो यकारौ रसप्रोक्तवौं । तदा शङ्खनारी फणीन्द्रोदिता स्यात् ॥ ६०॥ व्रजे रासकारी मनस्तापहारी। वधूभिः समेतो हरिः पातु चेतः ॥ ६१ ।। इति शकनारी २६. 'सोमराजी' त्यन्यत्र ।
यथा
यथा
१. ख. पंक्तिरियं नास्ति । २. क. स्व. पुस्तके 'नकार' स्थाने 'नमस्कार' पाठः
सोऽसमीचीनः। (सं०) ३. ख. अमन्द । *टिप्पणी-१ प्राकृतपैङ्गलमपरिच्छेद २ पद्य ४५ *टिप्पणी-२ , , .