________________
५८
वृत्तमौक्तिक - द्वितीयखण्ड
[५० ७.१४
अथ द्वयक्षरम्
३. कामः गौ चेत् कामो।
नाग-प्रोक्तः ॥ ७॥
यथा
यथा
वन्दे कृष्णम् ।
केली-तृष्णम् ॥८॥ इति कामः ३.
४. अथ मही लगौ महीम् ।
वदत्यहिः ॥६॥ रमापते ।
नमोऽस्तु ते ॥ १०॥ इति मही ४.
५. अथ सारम् वक्र-लौ च ।
सार-मत्र ॥११॥
यथा
कंस-काल ।
नौमि बाल ॥१२॥ इति सारम् ५.
६. अथ मधुः द्विलकृति।
मधुरिति ॥ १३॥
यथा
मतिमव ।
मम भव ॥ १४ ॥
इति मधुः ६. अत्रापि द्वयक्षरस्य प्रस्तारगत्या चत्वार ४ एव भेदा भवन्तीति, तावन्तोप्युक्ताः ।
इति द्वयक्षरम् ।