________________
श्रीलक्ष्मीनाथभट्टसूनु-कविचन्द्रशेखरभट्टप्रणीतं
वृत्त मौक्ति कम् द्वितीयः खण्डः
प्रथमं वृत्तनिरूपण - प्रकरणम्
[ मङ्गलाचरणम् ] शिरोऽदिव्यद्' गङ्गाजलभवकलालोलकमला
न्यलं शुण्डादण्डोद्धरणविषयान्यारचयता। जटायां कृष्टायां द्विरदवदनेनाथ रभसा, ।
दुदश्रुर्गौरीशः क्षपयतु मनः क्षोभनिकरम् ।। १ ।। मात्रावृत्तान्युक्त्वा कौतूहलतः फणीन्द्रभणितानि । अथ चन्द्रशेखरकृती वर्णच्छन्दांसि कथयति स्फुटतः ॥ २ ॥
[अथैकाक्षरं वृत्तम् ]
१. श्री: यो गः । सा श्रीः ।। ३ ।।
यथा
श्री-र्मा-मव्यात् ।। ४ ।।
इति श्रीः १
२. अथ इ. ल इ-रि-ति ।। ५ ।।
यथा
श-म कु-रु ॥ ६॥
इति इ: २. अत्रकाक्षरस्य प्रस्तारगत्या द्वावेव भेदौ भवतः' ।
इत्येकाक्षरं वृत्तम्।
१. ख. दीप्यद् । २. पंक्तिरियं नास्तिक प्रती।