SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ वृत्तमौक्तिक - प्रथमखण्ड [ प० ३४ - ३६ सावधानतयैव लवमपि मनः परमचलमिदं न विदितं भावयन्तु दिवानिशमनिमिषमात्मनि परमपदं प्रमुदितम् ॥ ३४ ।। इत्युद्गलितकम् । एवं गलितकादीनि वृत्तान्युक्तानि कानिचित् । लक्ष्याणि लक्ष्यमालक्ष्य शेषाणि निजबुद्धितः' ॥ ३५ ॥ इति गलितक-प्रकरणं षष्ठम् । [ग्रन्थकृत्प्रशस्तिः] रन्ध्रसूर्याश्वसंख्यातं मात्राच्छन्द इहोदितम् । सप्रभेदवसुद्वन्द्वशतद्वयमुदीरितम् २८८ ॥ ३६ ।। सोदाहरणमेतावदस्मिन्खण्डे मयोदितम् । प्रस्तारसंख्यया तेषां भाषणे पिङ्गलः क्षमः ।। ३७ ॥ श्रीचन्द्रशेखरकृते रुचिरतरे वृत्तमौक्तिकेऽमुष्मिन् । मात्रावृत्तविधायकखण्ड: सम्पूर्णतामगमत् ॥ ३८ ।। बाणमुनितर्कचन्द्रैः[१६७५] गणितेब्दे वृत्तमौक्तिके रुचिरम् । माघे धवलपक्षे पञ्चम्यां चन्द्रशेखरश्चक्रे ।। ३६ ।। ५ इत्यालङ्कारिकचक्रचूडामणि-छन्दःशास्त्रपरमाचार्य-सकलोपनिषद्रहस्यार्णवकर्णधारश्रीलक्ष्मीनाथभट्टात्मज-कविशेखर-श्रीचन्द्रशेवरभट्टविरचिते श्रीवृत्तमौक्तिके पिङ्गलवात्तिके मात्राख्यः प्रथमः परिच्छेदः । श्रीरस्तु। 10 १. ग. पूर्ण पद्य नास्ति । २. ग. इति वृत्तमौक्तिके गलितकं प्रकरणं षष्ठं। तदनन्तरं ग. प्रतो निम्नपद्य वर्तते-- जनकुलपालं लालितबालं वादितमृदुतरशंख, रोचनयुतभालं धृतवनमालं शोभिततरलवशंखम् । दितिव्रजकालं पादिततालं कृतसुरमुनिगणशंसं, रुचिकलिततमाल जितघनजालं भासितयादववंशम् ॥ ३. ग. इति श्रीमच्चन्द्रशेखरकृते रुचिरवरे वृत्तमौक्तिकेऽमुष्मिन् मात्रावृत्तविषायकखण्डः समाप्तम् । ४. ग. पूर्ण पद्य नास्ति। ५. ग. 'इत्यालं' प्रारभ्य 'परिच्छेदः' पर्यन्तं पाठं नास्ति ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy