________________
प० २६ - ३३ ]
यथा -
यथा -
यथा 5
६. गलितक - प्रकरण
१२. मालागलितकम्
षट्कलविरचितं तदनु च दश' - संख्यडगण
परिभावितचरणमुदेति मालाभिधं गलितकम् । मध्यगुरु जगणेन विरचित समस्तसमगण
रसोदधिकलकमहीन्द्र फणिवदने वलितकम् ॥ २६ ॥
कालिय कुलविभञ्जक-मसुरविडम्बक- दनुजविलुम्पकमखिलजनस्तुतशुभचरितंमुनिनुतं,
नौमि विमलतरं सकलसुखकरं कलिकलुषहरं, भवजलधिर्तारं हरि पालने सुनियतम् । कंसहृदि विकटं मुनिगणनिकटं विनिहतशकटं
परिघृतमुकुटं जगद्विरचनेऽतिचतुरं, भक्तजनशरणं भवभयहरणं वरसुखकरणं
स्वपदवितरणं जगन्नाशने धृतधुरम् ॥ ३० ॥
इति मालागलितकम् ।
१३. मुग्धमालागलितकम् ४
मालाभिख्यमेव हि भवति चतुष्कलयुगरहितं फणिपविन्न मुग्धपूर्वम् ।। ३१ ।।
वन्दे नन्दनन्दनमनवरतं मरकतसुतनुं धृतरुचि मुरारिमा (मी) शं वादितवंशमानतमुनिजन-नारदविरचितगानमवनीमणीमनीषम् । कारितरासहास परवशरतं विरचितसुरतं विततकुङ्कुमेन पीतं, तं देवं प्रमोदभरसुविदितं मुदितसुरनुतं सततमात्मजेन गीतम् ।। ३२ ।। इति मुग्धमालागलितकम् ।
१४. उद्गलितकम्
मुग्धपूर्वकमेव डगणयुगलेन रहितपदमुद्गलितकम् ।। ३३ ।।
[ ५५.
नन्दनन्दनमेव कलयति न किञ्चिदिह जगति सारमपरं, पुत्रमित्रकलत्रमखिलमपि चित्रघटितमिव भाति न परम् ।
१. ग. शरसंख्य ।
२. ग. फणिपवनेद । ३. ग. ऊहयमुदाहरणं, उदाहरणं नास्ति । ४. ग. मुग्धामालागलितकम् । ५. ग. मालाभिसख्यमेव । ६. ग. वित्त । ७. ग. ऊह्यमुदाहरणं, उदाहरणं नास्ति । ८. ग. लक्षणानुसारादेव कविभिरुदाहरणमूह्यम्, उदाहरणं नास्ति ।