________________
वृत्तमौक्तिक-प्रथमखण्ड
[प० २३-२८
शरोदितगणैः परिभावितसकलचरणैः सहिता',
कवीन्द्रकथितान्तगुरुः किल विक्षिप्तिका महिता' ॥ २३ ॥
यथा
यथा
चन्द्रकचितमुकुटमखिलमुनिजनहृदयसुखकरणं,
धृतवेणुकलं वरभक्तजनस्याद्भुतं शरणम् । वृन्दावनभूमिषु वल्लवनारीमनोहरणं,
रुचिरं निजचेतसि चिन्तय गोवर्द्धनोद्धरणम् ॥ २४ ॥
इति विक्षिप्तिकागलितकम् ।
१०. ललितागलितकम् पूर्व कथिता विक्षिप्तिकव' चरणसुकलिता,
ठगणे' चतुष्कलेन भूषिता प्रभवति ललिता ॥ २५ ॥ कमलापति कमलसुलोचनमिन्दुनिभाननं,
मञ्जुलपरिपीतवाससमपारगुणकाननम् । सनकादिकमानसजनितनिवाससमस्तनुतं,
प्रणमामि हरिं निजभक्तजनस्य हिते निरतम् ।। २६ ।।
इति ललितागलितकम् ।
११. विषमितागलितकम् पूर्व द्वितीयचरणे विषमस्थितिकपञ्चकलः,
___तुर्ये तृतीयचरणे प्रथमं भवति चतुष्कलः । सकले समस्थित (ति) वेदकलो विरतौ विरचिता,
या (यो)गेन शरोक्तगणेन च सा भवति विषमिता ॥ २७ ।
यथा
वेणु करे' कलयता सखि ! गोपकुमारकेण,
पीताम्बरावृतशरीरभृता भवतारकेण । प्रेमोद्गतस्मितरुचा वनजभूषणशोभिना,
चेतो ममापि कवलीकृतं मानसलोभिना ।। २८ ।। इति विषमितागलितकम् ।
१. ग. सहिताः। २. ग. गुरु। विक्षिप्तिकः कथिता च । ६. ग.ठगणेन । १०. ग. वेणुकरे।
३. ग. महिताः। ४. ग. धरणम् । ५. ग. ७. ग. तुर्य। ८. ग. कलौ। ९. ग. सागेन ।