________________
प०१७-२२]
६. गलितक-प्रकरण
८ [२]. अपरं समगलितकम् समगलितकं प्रभवति' विषमे यदि डगणत्रिकलाभ्यां कलितकम् । मुखगलितकं समचरणे किल भवति निखिलपण्डितमुखवलितकम् ॥ १७ ॥
यथा
विभूतिसितं शिरसि निवसिता-नुपमनदीभवपङ्कजविलसितम् । अहिप-रुचिरं किमपि विलसितां' मम हृदि वेदरहस्यमतिसुचिरम् ॥ १८ ॥
इति द्वितीयं समलितकम् ।
८ [३]. अपरं सालतकम् विपरीतस्थितसकलपदयुतमेव समगलितकं सङ्गलितकम् ।। १६ ॥ विपरीतपठितमिदमेवोदाहरणम् । यथा
शिरसि निवसिताप्नुपमनदीभव-पङ्कजविलसितं विभूतिसितम् । किमपि विलसितां मम हृदि वेदरहस्यमति सुचिरं अहिप-रुचिरम् ॥ २० ॥
इति द्वितीयं सङ्गलितकम्।
८ [४]. अपरं लम्बितागलितकम् शरमितडगणैः स्याद् भाविता' निखिलपादे
विषमजगणमुक्ता चान्तगा''विगतवादे । युगयुगकृतमात्राः कल्पिता' यदनुपादं,
फणिपतिभणितेयं लम्बिता त्यज विषादम् ॥ २१ ॥ राजति वंशीरुतमेतत् काननदेशे,
___ गच्छति कृष्णे तस्मिन्नथ मञ्जुलकेशे । याहि मया सार्द्धमितो रासाहितचित्ते,
तत्सविधे प्रेमविलोले तेन च वित्ते' ।। २२ ।। इति द्वितीयं लम्बितागलितकम् ।
६. विक्षिप्तिकागलितकम् शरोदितकलो यदि भाति' गणो विषमस्थितियुतः
समस्थित (ति) विभूषितेन तदनु चतुष्कलेन युतः ।
यथा
१. ग. 'समगलितक' नास्ति, भवति च । २. ग. सकलितकम् । ३. ग. मुखवतिलकम् । ४. ग. निवासिता। ५. ग. फणिप। ६. ग. विलसतां। ७. ग. नास्ति ८. ग. विलासिता। ६. ख. ग. फणिप। १०. ग. भावित । ११. ग. वान्तगावितवावे। १२. ग. कल्पित । १३. ग. चलचित्ते। १४. क. भावि ।