________________
५२ ]
वृत्तमौक्तिक-प्रथमखण्ड
[ १० ११ - १६
गगनपक्षकलाकृतचरणविकासितं,
मुखगलितकमिदं वरफणिपतिभाषितम् ।। ११ ।।
यथा
यथा
ब्रह्म भवादिकनुतपदपङ्कजयुगलं,
नाशितभक्तहृदयगतदारुणशमलम् । दीनकृपानिधि-भवजलराशितारकं,
नौमि हरि कमलनयनमशुभदारकम्' ।। १२ ॥
इति मुखगलितकम् ।
७. विलम्बितगलितकम् आदौ षट्कलं तदनु चान्तगेन सहितं,
जलनिधिकलचतुष्कमहिनायकेन विहितम् । समगणे जगणेन सहितं' फणीन्द्रभणितं,
विलम्बिताख्यमेतदखिलसुकवीन्द्रगणितम् ॥ १३ ॥ नमामि पङ्कजाननं सकलदुःखहरणं,
भवाम्बुराशितारकं निखिलवन्द्यचरणम् । कपोललोलकुण्डलं व्रजवधूजनसहितं,
विलासहासपेशलं सरसरासमहितम् ॥ १४ ।। इति विलम्बितगलितकम् ।
८ [१]. समगलितकम् डगणविभूषं प्रथममवेहि पञ्चकलयुगयुतं',
तदनु चतुष्कलयुगसहितं विरतो लगुरुमहितम् । शरयुगमात्रासहितमनुत्तमपिङ्गलभाषितं,
समगलितकमिदमतिसुखकरसुललितपदभासितम् ॥१५।। निखिलसुरगणविनुतपङ्कजकोमलचरणयुगलं,
पीतवसनविलसितशरीरमनुत्तमकम्बुगलम् । नौमि निगमपरिगदितमपारगुणयुतमिन्दुमुखं,
नन्दतनूजं निखिलगोपवधूजनदत्तसुखम् ।। १६ ।।
इति समगलितकम् । १. ग. दायकम् । २. ग. रहितम् । ३. ग. गदितम् । ४. ग. वन्द्यां चरणम् । ५. ग. कुजं । ६. ग. ज्यतम् । ७. ग. लघुगुरुसहितम् ।
यथा