________________
५० ६.१०]
६. गलितक-प्रकरण
यथा
धृतिमवधारय मानसे,
हरिमपि' गततनुरानशे। सखि ! तव वचनं मानये,
ननु वनमालिनमानये ॥ ६ ॥
इति सङ्गलितकम् ।
४. सुन्दरगलितकम् ठगणद्वयेन भाषितं,
लादित्रिकलविकासितम्। सुन्दरगलितकनामकं,
वृत्तममलरुचिधामकम् ।। ७ ।। विगलितचिकुरविलासिनी,
नवहिमकरनिभहासिनीम् । सुबलराधिकान्तामये',
तनुजितकनकां कामये ॥ ८ ॥ इति सुन्दरगलितकम् ।
५. भूषणगलितकम् ठगणद्वितयं प्रथमं चरणे,
रसभूमिसुसंख्यकलाभरणे । त्रिकलद्वितयं पुनरेव यदा,
फणिभाषित-भूषणकेति तदा ॥ ६ ।। रुचिरवेणुविरावविमोहिता
द्रुतपदाः कृतरासरसैः५ हिताः । हरिमदूरवने हरिणेक्षणा
स्तमनुजग्मुरनन्यगतेक्षणाः ॥ १० ॥ इति भूषणगलितकम् ।
६. मुखगलितकम् षट्कलं प्रथममथ वेदत्रिकलयुतं,
__ पुनरपि यच्चरणशेषगतवलयचितम् ।
यथा
१. ग. हरिमपगत । २. ग. विलासितम्। ३. ग. सुबलिराविकाम् । ४. ग. वा। ५. ख. ग. रसे। ६. ग. क्षणम् ।