________________
षष्ठं गलितकप्रकरणम्
यथा
प्रथ गलितकानि
१. गलितकम् शरकलं पञ्चपरिमितं जलधिकलयुगं
प्रविलसति यस्मिश्चरणे लघुगुर्वनुगम्' । विधुयुगकलारचितमहिपतिफणिकलितकं
वरकविजनमानसहरं भवति गलितकम् ।। १ ॥ मल्लि-मालतियूथिपङ्कजकुन्दकलिके,
कुमुदचम्पककेतकिपरिमलबलदलिके' । मलयपर्वतशीतल त्वयि जातपवनः,
हरिवियोगतनोरियं मम कथं दहनः ॥ २ ॥
इति गलितकम् ।
२. विगलितकम् ठगणद्वयं भवति चतुष्कलद्वयसङ्गतं
___ तदनु च शरकलं भवति सुललितकविसम्मतम् । दहनपक्षकलाविलसितविमलसकलचरणं,
विगलितकमेतत् फणिपतिमधिकसुखकरणम् ॥ ३ ॥
यथा
भवजलधितारिणि सकलतापहारिणि गङ्गे,
अघदहनकारिणि रुचिधारिणि हरकृतसङ्गे। गिरिनिकरदारिणि मनोहारिणि तरलभङ्गे,
स्वपिमि वारिणि हंसहारिणि तव विलसदङ्गे ॥ ४ ।। इति विगलितकम् ।
३. सङ्गलितकम् डगणयुगेन विराजितं,
पञ्चकलेन सभाजितम् । सङ्गलितकमिति कल्पितं,
___फणिपतिपिङ्गलजल्पितम् ॥ ५ ॥
२. ग. मानसहर तवति । ३. ग. मल्लिका। ४. ग. कुन्दचम्पकके परिमलवल्लिके । ५. ख. टगणद्वयम्। ६. ग. भवजलधिर्तरणि ।