________________
४८ ]
वृत्तमौक्तिक -प्रथमखण्ड
[ ५०६-१०
३. मल्ली सवया गिरिराजसुताकमनीयमनङ्गविभङ्गकरं गलमस्तकमालं,
परिधूतगजाजिनवाससमुद्धतनृत्यकरं विगृहीतकपालम् । गरलानलभूषित-दीनदयालु-मदभ्रमरोद्धत'-दानवकालं,
प्रणमामि विलोलजटातटगुम्फितशेष'-कलानिधिलालितभालम् ॥ ६ ॥
इति मल्ली सवया।
४. मल्लिका सषया धुनोति मनो मम चम्पककाननकल्पितकेलिरयं पवनः,
___ कथामपि नैव करोमि तथापि वृथा कदनं कुरुते मदनः । कलानिधिरेष बलादयि ! मुञ्चति वह्निकलापमलीकहिम: विधेहि तथा मतिमेति यथा सविधेन पथा व्रजभूमहिमः ।। ७ ।।
इति मल्लिका सवया।
५. माधवी सवया विलोलविलोचनकोणविलोकित-मोहितगोपवधूजनचित्तः,
- मयूरकलापविकल्पितमौलिरपारकलानिधिबालचरित्रः । करोति मनो मम विह्वलमिन्दुनिभस्मितसुन्दरकुन्दसुदन्तः, सखीमिति' कापि जगाद हरेरनुरागवशेन विभावितमन्तः ॥ ८ ॥
इति माधवी सवया ।
६. मागधी सवया माधव विद्युदियं गगने तव कलयति पीतवसनमभिरामम् ,
जलधरनीलगगनपद्धतिरपि तव तनुरुचिमनुसरति निकामम् । इन्द्रशरासनमपि तव वक्षसि भासितवरवनमालाशोभं. [कुरु मम वचनं सफलय हृदयं राधाधरमधुविरचितलोभम् ॥ ६ ॥
___ इति मागधी सवया। उक्तानि सवयाख्यानि छन्दांस्येतानि कानिचित् । ऊह्यानि लक्ष्यमालोच्य शेषाणि निजबुद्धितः ।। १० ॥
१. ग. मदोधक। २. ग. सखीरिति । प्रतो नास्ति । ५. ग. पालोक्य ।
३. ग. मागध।
४. चतुर्थचरणः क.