________________
पञ्चमं सवया-प्रकरणम्
श्रथ सवया '
सप्तभकारविभूषित-पिंगलभाषितमन्तगुरूपहितं ", श्रन्यदथापि तथैव भभूषितमन्तगुरुद्वयसंविहितम् । अष्टसकारमथो गुरुसङ्गतमेतदथान्यदपि प्रथितं,
सप्तजकारविराजितमन्त्यलघुं गुरु भासितमन्यदिदम् ॥ १ ॥ अन्यदिदं [ मुनिनायकभाषितमन्त्यलघु गुरुयुग्मसुयुक्त ं, योगचतुष्कलपूजित ] 'मन्यदिदं युगवह्नि कलाभिरमुक्तम् । पण्डितमण्डलिनायकभूपतिमानसरञ्जनमद्भुतवृत्तं,
9
सर्वमिदं सवयाभिधमुक्तमशेषकवीन्द्रविमोहित चित्तम् ॥ २ ॥ श्रथेतेषां भेदानां नामानि
मदिरा मालती मल्ली मल्लिका माधवी तथा । मागधीति च नामानि तेषामुक्तान्यशेषतः ॥ ३ ॥ क्रमेणोदाहरणानि ७, यथा
१. मदिरा सवया भालविराजितचन्द्रकलं नयनानलदा हितकामवरं,
बहुविराजितशेष फणीन्द्र फणामणिभासुरकान्तिधरम् । भूधरराजसुतापरिमण्डितखण्डित 'नूपुरदण्डधरं,
नौमि महेशमशेष सुरेश विलक्षणवेषमुमेश' 'हरम् ॥ ४ ॥ इति मदिरा सवया ।
२. मालती सवया
चन्द्रकचारुचमत्कृतिचञ्चलमौलिविलुम्पित-११ चन्द्रकिशोभं, वन्यनवीन विभूषणभूषितनन्दसुतं वनिताघरलोभम् । धेनुकदानवदारणदक्ष-दयानिधिदुर्गमवेदरहस्यं
नौमि हरिं दितिजावलिमालित ' ' -भूमिभरापनुदं सुयशस्यम् ॥ ५ ॥ इति मालती सवया ।
.
१. ग. सवईया | २. ग. पिहितम् । ३. ख. ग. लघु । ४. ग. मुनि । ५. कोष्ठकगतोंशो नास्ति क प्रतौ । ६. ग. कलारसमुक्तम् । ७. ग, तासां क्रमेणोदाहरणानि । ८. ग. तद्यथा । ६. क प्रतौ 'खण्डित' शब्दो नेव । १०. ग. मुनेश । ११. ग. विलम्बित । १२. ग. दितिजावलिभारित ।