________________
प०६५-६७]
४. पद्मावती-प्रकरण
[ ४५
यथा
२६: मदनगृहम् प्रथमं द्विल'सहितं वरगुरुमहितं
विरतौ विमलसकल-चरणे श्रुति -सुखकरणे, नवडगणविकासित-मध्यविराजित
जनशुभदायकदेहधरं फणिभणितवरम् । गगनावलिकल्पित-वसुमितजल्पित
वेदविधूदितयतिसहितं वसुयतिमहितं,५ . गगनोदधिमात्रं भवति विचित्रं
मदनगृहं पवनविरहितं' सकलकविहितम् ॥ ६५ ।। सुरनतपदकमलं हतजनशमलं
वारिजविजयिनयनयुगलं वारिद"विमलं, दितिसुतकुलविलयं कमलानिलयं
कल करयुगलकलितवलयं केलिषु सलयम् । चन्द्रकचित -मुकुटं विनिहतशकटं
दुष्टकंसहृदि बहुविकटं मुनिजननिकटं, गतयमुनारूपं कृतबहुरूपं
नमतारूढहरितनीपं° श्रुतिशतदीपम् ।। ६६ ।। यथा वाऽस्मत्पितुः शिवस्तुतो
करकलितकपालं धृतनरमालं
भालस्थानलहुतमदनं कृतरिपुकदनं, भवभयभरहरणं' 'गिरिजारमणं
सकलजनस्तुतशुभचरितं गुणगणभरितम् । कृतफणिपतिहारं त्रिभुवनसारं
दक्षमखक्षयसंक्षुब्धं रमणीलुब्धं, गलराजितगरलं गङ्गाविमलं कैलाशाचलधामकरं प्रणमामि हरम् ।। ६७ ।।
इति प्रत्युदाहरणम् । इति मदनगृहम् ।
१. ग. द्विजसहितम् । २. ग. कमल । ३. ग. अति । ४. ख. महितम् । ५. ग. 'वसुयतिमहित' नास्ति। ६. 'पवनविरहित मदनगहं' इति पाठात् श्रुतिकटुत्वदोषनिरासः स्यात। (सं०) ७. ग. वारिज । ८. ग. वरकर । ६. ग. चन्द्रकजुत। १०. ग. हरितानीपम् । ११. ख. ग. भवभवभयहरणम् । १२. ग. त्रैलोक्यहितम् ।