________________
४४ ]
यथा
वृत्तमौक्तिक प्रथमखण्ड
.
२५. जनहरणम्
गगनविधुतिमहित-वसुजयतिसहितमनु वसुजविहितचरणयति, कुरु मुनिमुनिगणकल' - विगत 'सकलमलवरसगण बहुलपदविरतिम् । वसुडगणकृतचरण-सकल सुखकरण
मधिकरुचिधरणकविशरणं, फणिवरनृपतिरचित - निखिलमनुज हितसकलगुरु रहितजनहरणम् ।। ६३ ।।
वरजलनिधिजलशय निरुपमरुचिचय सुरगणहृतभय गतकुमते, बहुदितिसुतकुलहर निजजनसुखकर सुरमुनिगणवरकृतसुमते ।
अमलकनकसुवसन कटिधृतसुरसन कुसुमनिभहसन सुखकरणं,
तव भवतु पदकमलमधिकतर विमल
सुखद शुभयुगल भवतरणम् ।। ६४ । इति जनहरणम् ।
[ प० ६३-६४
१. अत्र मुनिगणो विप्रगरण पर्याय: (सं.) । २. ग. गलित |
अत्र षट्कलस्य सर्वलघुत्वे, तुर्याक्षरस्यैव गुरुत्वे वा छन्दोऽन्तरमुत्प्रेक्षितं भवति ।
तच्च लघुहोरकं परिवृत्तहीरकं चेति व्यवहर्त्तव्यम् । द्वयमपि यथा --
विरहगरलभरिततरल कुटिलसरसलोचना,
चरणनखरकलितमदनयुवतिमदविमोचना ।
अमलकमल रजनिरमरणमुकुरविलसितानना, त्वहि जयसि सुतनु किररणवलितसकलकानना ।। ५७ ॥ विलसदङ्ग रुचितरङ्ग ललितरङ्ग रञ्जिनी, लसदपारपटिमभारमदनदारगञ्जिनी |
सकलयामसुखदवामतरललामलीलना, जयसि नामहृदभिरामरतिनिकामशीलना ॥ ५८ ॥