________________
प०६०.६२]
४. पद्मावतो - प्रकरण
V
uuuuuuuuuuuuu
२४. होरम आदिगयुत-वेदलयुत-नागरचितषट्कलं,
वह्निगदित-लोकविदितमन्त्यकथितमध्यकलम् । भाति यदनु-पादमतनु-कान्तिसुतनुसङ्गतं,
हीरमहिपवीरकथितमीदृगखिलसम्मतम् ॥ ६० ॥
यथा
चन्द्रवदन-कुन्दरदन-मन्दहसनभूषणं,
भीतिकदन-नीतिसदन'-कान्तिमदनदूषणम् । धीरमतुलहीरबहुलचीरहरणपण्डितं,
नौमि विमलधूतकमलनेत्रयुगलमण्डितम् ॥ ६१ ॥ यथा वाऽस्मत्तातचरणानाम्पाहि जननि ! शम्भुरमणि ! शुम्भ'दलनपण्डिते !
__तारतरलरत्नखचितहारवलयमण्डिते । भालरुचिरचन्द्रशकलशोभि सकलनन्दिते !
देहि सततभक्तिमतुलमुक्तिमखिलवन्दिते ! ॥ ६२ ॥ इत्यादिमहाकविप्रबन्धेषु शतशः प्रत्युदाहरणानि ।
इति हीरम् ।
१. ग. नास्ति । २. ग. शम्भु। ३. ग. कलशशोभि । ४. ग. सकलसनन्विते । *टिप्पणी--वृत्तमुक्तावल्यां द्वितीयगुम्फे 'हीर'वृत्तस्य सुहीरं हीरं लघुहीरकं परिवृत्तहीरक
चेति चत्वारो भेदा निबद्धास्तेऽत्र प्रदर्श्यन्तेप्रतिषट्कलं यत्या रहितं सुहीरम् । यथा
रासललितलासकलितहासवलितशोभनं, लोकसकलशोकशमलमोकमखिललोभनम् । जातनयनपातजनितशोतमुदितभारसं,
भाति मदनमानकदनमीशवदनसारसम् ॥ ५५ ॥ यथाप्रतिषट्कलं यत्या सहितं हीरम् ।
खजनवरगञ्जनकरमञ्जनरुचिराजितं, कामहदभिराममतिललामरतिसभाजितम । नीलकमलशीलमुदितकीलविरहमोचनं, जातिकुटिलयाति. सुदति भाति तव विलोचनम् ।। ५६ ॥