________________
४२ ]
वृत्तमौक्तिक - प्रथमखण्ड
[प०५५-५६
परिहीयते वपुषा भृशं नलिनीव हिमततिसङ्गता, नुदती वने' वदतीति सा सुदती रतीशवशंगता ।। ५५ ।।
इत्यपरा हरिगीता।
२२. त्रिभङ्गी प्रथमं दशसु च यतिरनु च वसुषु यतिरथ च तदधिकृति-रस कथितं, शेषे गुरुगदितं त्रिभुवनविदितं जगणविरहितं जगति हितम् । वसुडगणकृतचरण-मधिकसुखकरण-सकलजनशरण-मतिसुमतिः,
वदतीति त्रिभङ्गीमिह निरनङ्गीकृतरतिसङ्गी फणिनृपतिः ।। ५६ ।। यथा
वरमुक्ताहारं हृदि कृतभारं विरहितसारं कुरु मुषितं, छादय विधुबिम्बं न कुरु विलम्ब हर निकुरुम्बं कमलकृतम् । जहि मलयजपवनं लघु लघुवहनं तनुकृतदहनं मोहकर, मम चित्तमधोरं रदजितहीरं यदुवरवीरं याति परम् ।। ५७ ।।
इति त्रिभङ्गी।
२३. दुर्मिलका यत्राऽष्टौ डगणाः कविसुखकरणाः प्रतिपदगुम्फनललितयुता
गगनावनिरचिता वसुषु च कथिता यत्र वेदविधुयतिरुदिता। द्वात्रिंशन्मात्राः स्युरतिविचित्राश्चरणे यस्मिन् कविगणिता
जनहृदि सुखदात्री बुद्धि विधात्री सा दुर्मिलका फणिभणिता ॥ ५८ ॥
यथा
हैयङ्गवचोरं नन्दकिशोरं तन्दुलकणरुचिसमरदनं,
घनकुञ्चितकेशं मञ्जुलवेषं विजितमनुजसुररुचिसदनम् । अपरिस्फुटगदनं दधियुतवदनं नौमि दितिजवरशकटहरं, मुक्ताभूषालकमद्भुतबालकमखिलमुनिजनहृदि सुखकरम् ॥ ५६ ॥
इति दुर्मिलका।
१. 'रुदती परं' इति पाठः पिङ्गलप्रदीपे । २. ग. नास्ति । ३. क.प्रथ। ४. ग. नास्ति । ५. 'मुक्ताभूषालकमद्भुतबालकमृषिजनहृदये सौख्यकरम्' इति पाठे श्रुतिकटुत्वदोषनिवृत्ति: स्यात् (सं.)