SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ५० ४६ - ५४ } ४. पद्मावती- प्रकरण मुरलीरव'-मोहनमनु'-मोहितनिखिलयुवतिजन -कृतरासं, विलसतु मम हृदि किमपि गोपिकाजनमानसजनितविलासम् ।। ४६ ।। इति हरिगीत[क]म्। २१. [३] मनोहरं हरिगीतम् इयमेव यदि विरामे गुर्वन्तं शरकलं भवति । नयत्येन कवीन्द्रर्वसुपक्षकलं मनोहरं कथितम् ।। ५० ।। एतदनुसारेण पाठान्तरं यथा उरसि विलसितानुपमनलिनकृतमधुकररुतयुतमालं, मुनिजनयमनियमादिविनाशकसकलदनुजकुलकालम् । मुरलीरवमोहनमनुमोहितनिखिलयुवतिकृतरासं, विलसतु मम हृदि किमपि गोपिकामानसजनितविलासम् ।। ५१ ।। इति मनोहरं हरिगोतम् २१. [४] हरिगीता रन्धेर्मुनिभिः सूर्यैः कृतविरतिर्भाविता कविभिः । इद (य) मेव हि हरिगीता फणिनायकपिङ्गलोदिता भवति ।। ५२ ।। यथा भुजगपरिवारित-वृषभधारित-हस्तडमरु विराजितं, कृतमदनगञ्जन-मशुभभञ्जन-सुरमुनिगणसभाजितम् । हिमकरणभासित-दहनभूषित-भालमुमया सङ्गतं, धृतकृत्तिवाससममलमानसमनुसर सुखदमङ्ग तम् ॥ ५३ ।। इति हरिगोता। २१. [५] अपरा हरिगीता इयमेव वेदचन्द्रः कृतविरति विता कविभिः । पितृचरणैरतिविशदा पिङ्गलविवृतावुदाहृता स्फुटतः ॥ ५४ ॥ तदुदाहरणं यथा सखि ! बंभ्रमीति मनो भृशं जगदेव शून्यमवेक्ष्यते, परिभिद्यते मम हृदयमर्म न शर्म सम्प्रति वीक्ष्यते । १. ग. वर। २. मम । ३. ग. 'जन' नास्ति। ४. ग. प्रती छन्दसोऽस्य लक्षणोदाहरणे न स्तः । ५. क. ग. प्रतौ नास्त्युदाहरणपद्यमिदम् ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy