________________
४० ]
यथा
वृत्तमौक्तिक प्रथमखण्ड
-
रचय कदलीदलनवशयनं कमलदलावलिमालितं, वीजय मृदुपवनेन घनाघनसुन्दरविरहदालितम् । श्रृङ्गकमपि घनसारविराजितचन्दनरचनलालितं, कुरु मम वचनमानय कमलाननवनमालिनमालि तम् ॥ ४७ ॥ इति हरिगीतम् *
यथा
२१. [२] हरिगीत [क] म्
अन्ते यदि गुरुयुगकृतचरणं नूनं भवेदिदं हि तदा । हरिगीत [क] मिति फणीश्वरपिङ्गलकथितं विजानीत ॥ ४८ ॥
उरसि विलसिता 'ऽनुपमन लिनकृतमधुकररुतयुतवनमालं, मुनिजनयम नियमादिविनाशकसकलदनुज कुल विकरालम् ।
१. ग. विशलता ।
* टिप्पणी - श्री कृष्णभट्ट ेन वृत्तमुक्तावल्या द्वितीयगुम्फे 'हरिगीत' वृत्तस्य अनुहरिगीतं मन्द्रहरिगीतं लघुहरिगीतञ्चेति त्रयो भेदाः स्वीकृतास्ते यथा
"अन्त्य गुरुमात्र ण हीनं धनुहरिगीतम् । यथा:
नवकोकिलाकुल ललितकलकल कलितजागरकाम. मतिधीरमलयसमीरधोररिणवलितमधुकरदाम | सखि भूरिकुसुमपरागपूरितकुञ्जमञ्जुलधाम, परिपश्य मानिनि मधुदिनं रमणेन सन्तनु साम ॥ ४६ ॥
यदा तु नुहरिगीतस्यादौ कलाद्वयं वर्द्धते तदा मन्द्र (हरि) गीतं उत्प्रेक्षितं भवति । यथा
जलधरघामधारण मोहतारण भवनिवारणशील, मधुमुरनरकगञ्जन दुरितभञ्जन नयनरञ्जनलील । त्रिभुवनभव्यभावक निजजननायक कलितपावकपान, जय रसकेलिभाजन सुरभाजन कृतसभाजनमान ॥ ५० ॥
[ १०४७-४८
श्रथ कलाद्वयह्रासे लघुहरिगीतम् । यथा: --
मल्लिकान व मल्लिकासुमतल्लिकारसपीन, मालिकान मालिका कमलालिकामघुलीन । सोऽधुना विकराल कालकलाकुलोद्यत एव, कुन्दकानन कौतुकी मा घाव मधुकरदेव ।। ५१ ।”