SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ प०४२ . ४६ । ४. पद्मावती - प्रकरण १६. प्लवङ्गमः आदावादिगुरुं कुरु षट्कलभाषितं, [पञ्चकलं तदनु च डगणं विभूषितम् । अन्ते नायकमथ रचय गुरुविकासितं) वृत्तमिदं प्लवङ्गममहिपतिसुभाषितम् ।। ४२ ।। यथा कुञ्चितचञ्चलकुन्तलकलितवराननं, वेणुविरावविनोदविमोहित'काननम् । मण्डलनायकदानवखण्डनपण्डितं, चिन्तय चण्डकरोपमकुण्डलमण्डितम् ॥ ४३ ।। इति प्लवङ्गमः । २०. लीलावती लघुगुरुवर्णरचित-नियमविरहित-वसुडगणकृत-चरणविरचिता, सगणद्विजवर-जगण-भगण-गुरुयुगकृतपदमतियमकसुकथिता। लीलावतिका पक्षदहनकृतकला वरकविजनहृदयमहिता, विरचितललितपद-जनहृदयकृतमद-फणिनायकपिङ्गलभणिता ।। ४४ ।। यथा गुजाकृतभूषणमखिलजनहतदूषणमधिककृतरासकलं, करयुगधृतमुरलिं नवजलधर नीलं वृन्दावन भुवि चपलम् । हतगोपीमानं नारदकृतगानं लीलाबलदेवयुतं, स्मर नन्दतनूजं सुरवरकृतपूजं मम हृदयमुनिजननुतम् ।। ४५ ।। इति लीलावती। २१[१] हरिगीतम् चरणे प्रथमं विरचय ठगणं तदनु टगणविराजितं, रचय शरकलं तदनु दहनमितमन्ते गुरु विकासितम् । वसुपक्षकलाकं कविजनसंसदि हृदयसुखदायकं, हरिगीतमिति वृत्तमहिपतिकविनृपतिजल्पितनायकम् ।। ४६ ।। १. कोष्ठकान्तर्गतोऽयं पाठः स्व. ग. प्रतावेवास्ति । पाठेऽस्मिन् पञ्चकल-चतुष्कलयोविषानं दृश्यते तच्च प्राकृतपैङ्गलमतविरुद्धं 'पंचमत्त चउमत्त गणा गहि किजए' इति नियमात् । (सं०) २. ग. विमोदित । २. नयनजलधर ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy