________________
३८]
वत्तमौक्तिक-प्रथमखण्ड
[ ५० ३६.४१
यथा
अथवा
१७. दीपकम् डगणं कुरु विचित्र
मन्ते जगणमत्र । मध्ये द्विलमवेहि',
दीपकमिति विधेहि ॥ ३६ ।। शेषविरचितहार,
पितृकाननविहार। जय जय हर ! महेश,
गौरीकृतसुवेष ! ॥ ३७ ।। तुरगैकमुपधाय,
सुनरेन्द्र मवधाय। इति दीपकमवेहि,
लघुमन्तमधिधेहि ।। ३८ ॥ यथाक्षणमात्रमतिवल्गु,
जगदेतदतिफल्गु । धनलोभमपहाय,
नम पद्मनयनाय ॥ ३९ ॥
इति दीपकम् ।
१८. सिंहविलोकितम् सगणद्विजगणविरचितचरणं,
चरणे रसभूमिकलाभरणम् । फणिनायकपिङ्गलभणितवरं,
वरसिंहविलोकितहृदयहरम् ।। ४० ।। हतदूषणकृतजलनिधितरणं,
रणभुवि कृतवानवकुलमरणम् । रणरणितशरासन भङ्गकरं,
करकलितशिरो नम देववरम् ॥४१॥
इति सिंहविलोकितम् । १. ग. दिकलमवेहि। २. ग. सुनवेन्द्र । ३. ग. ब्रह। ४. ग. उक्तञ्च । ५. ग. 'रण' नास्ति । ६ ग. शवासन। ग. मम ।
यथा