________________
५० ३० - ३५ ]
४. पद्मावती-प्रकरण
nnnnnnnnnnnnnarwwwwww
Wwww
१४. दण्डकला वेदडगणविरचितमनु' च टगणकृत-मन्ते डगणद्वयविहितं, गुरुकृतपदविरतं कबिजनसुमतं दण्डकलाख्यमिदं विदितम् । वरफणिकुलपतिना विमलसुमतिना पक्षदहनकृतचरणकलं, गगनेन्दुविराजित-योगविकासित-वेदावनिकृतयतिविमलम् ।। ३० ॥
यथा
खरकेशिनिषूदन-विनिहतपूतन-रचितदितिजकुलबलदलनं, बाणावलिमालित-सङ्गरपालित-पार्थविलोकितशुभवदनम् । कृतमायामानव-रणहतदानव-दुस्तरभवजलराशितरिं, सुरसिद्धि-विधायक-यादवनायकमशुभहरं प्रणमामि हरिम् ।। ३१ ।।
इति दण्डकला।
१५. कामकला यदि रसविधुमात्राणामन्ते विरतिर्भवेत्तदा सैव । कामकलेति फणीश्वरपिङ्गलकथिता मता सद्भिः ॥ ३२ ।।
यथा
कमलाकरलालितपदकमलं निजजनहृदयविनाशित शमलं, पीतवसनपरिभासितममलं जितकम्बुमनोहरविमलगलम् । नाभिकमलगतविधिकृतनमनं फणिमणिकुण्डलमण्डितवदनं, नौमि जलधिशयमतिरुचिसदनं दानवनिवहसमरकृतकदनम् ।। ३३ ।।
इति कामकला।
१६. रुचिरा सप्तचतुष्कलकलितसकलदल-मन्त्याहितकुण्डलरुचिरा ।
न कुरु पयोधरमिह फणिपतिवर-भणितमिदं वृत्तं रुचिरा ॥ ३४ ॥ यथा
कस्य तनुर्मनुजस्य सितासित-सङ्गममधिविधितः पतिता। यस्य कृते करभोरु विषीदसि मिहिरातपनिहितेच लता ॥३५।।
इति रुचिरा।
५. ग.
१. ग. तनु । २. ग. 'च' नास्ति । ३. ग. विरचित । ४.ग. सिद्ध। संष। ६. ग. सद्भ्यः । ७. हृदयविभाशित । ८. ग. विहितेव ।