________________
वृत्तमौक्तिक - प्रथमखण्ड
[ प० २४-२६
wwwwwwwwwwwwwwwwwwwwwwww
यथा
विकृतभयानकवेषकलं,
चरणाङ्कितवरभूमितलम् । व्योमतलामलकम्बुगलं,
नौमि विभूषितभालतलम् ।। २४ ॥
यथावा'
यमुनाजलकेलिषु कलितं,
वनिताजनमानसवलितम् । सुरभीगणसङ्घा च्चलितं,
नौमि हृदा बलसम्मिलितम् ॥ २५ ।।
इति हाकलि।
१२. मधुभारः डगणमवधेहि, जगणमनु देहि । मधुभारमाशु, परिकलय वासु ॥ २६ ।।
यथा
उरसि कृतमाल, भक्तजनपाल । रुचिजितंतमाल, जय नन्दबाल ।। २७ ।।
इति मधुभारः।
१३. प्राभीरः अन्ते जगणमवेहि,
___ विधुयुगकला विधेहि। आभीरं परिशोभि,
कविजनमानसलोभि ॥ २८ ॥
यथा
ब्रजभुवि रचितविहार,
श्रुतिशतकलितविचार। यदुकुलजनितनिवास,
जय भूतलकृतरास' ॥ २६ ॥
इत्याभीरः।
१. ग. उक्तञ्च। २. ग. संगात् ।
३. ग. जय जय भुवि कृतरास ।