________________
३४]
यथा
यथा
वृत्तमौक्तिक प्रथमखण्ड
यथा
६. खञ्जा
नवजलधिकलमितगणमिह समुपनय
तदनु च कुरुत रगणमपि फणिभणितखञ्जके । इति विधिविरचितदलयुगमिह भवति
१
[ १० ११ - १६
निखिलभुवनगतवरक विजनहृदयसुखसञ्जके ॥ ११ ॥
निजतनुरुचिविजितनवजलधररुचि
विधृतरुचिरतर मुकुट हरिरिह मम हृदि भासताम् । मम हृदयमविरतमनुभवतु तव
निजजनसुखवितरणरसिकचरणसरसिजदासताम् ।। १२ ।।
इति खञ्जा |
७. शिखा
रसजलधिकलमुपनयत फणिरिति वदति सकलकविसखा हि । अपरदलमथ मुनिकृतमुभयमपि जगणविरतिगमिति भवति शिखा हि ॥ १३
विकचन लिनगतमधुरमधुकरकलरवमनुकलय सुकेशि !
हरिरिति विनमति चरणयुगमपि मयि कुरु हृदयमपरुषमति सुवेषि ! || १४ |
इति शिखा ।
८. माला
६
जलनिधिकलमिह नवगणमुपनय तदनु च
गणमपि हि गुरुयुगगणमथ कुरु पिङ्गलप्रोक्तम् । गाथोत्तरार्द्धसहितं मालावृत्तं विजानीहि ।। १५ ।।
पितहृदय करयुगकृतवसन वसनहरण
परवशयुवतिकृत विनतिर भयमान्ततद्वासा : * ( ? ) । तीरे कदम्बशाली वरवनमाली हरिः पायात् ॥ १६ ॥ इति माला ।
१. ग. कलनगुरणनगरणमिह । २. ग. वर । ५. ग. हृदि रुषमति ।। ६. ग. सिंह ।
३. ग. त्रिरचितमिति । ४. ग. तम् । ७. ग. कृतत्रासः ।